________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यवहारकामहम
सर्वे द्विगुप्लदण्ड्याम्स्युर्विप्रसम्भान्नृपस्य ते"-दति ॥ एवञ्चावञ्चनया प्रशान्तानां न दण्डः । अतएव वृहस्पतिः,
“पूर्वोत्तरेऽभिलिखिते प्रक्रान्ने कार्यनिर्णथे। दयोः सन्तप्तयोः सन्धिः स्यादयःखण्डयोरिव ॥ माचिसभ्यविकल्पस्तु भवेत्तत्रोभयोरपि । दोलायमानयोः सन्धिं प्रकुर्यातां विचक्षण: * ॥ प्रमाणसमता यत्र भेदः शास्त्रचरित्रयोः ।
तत्र राजाज्ञया मधिरुभयोरपि शस्यते"-इति ॥ अर्थिप्रत्यर्थिनोरभियोगे कञ्चिबियममाह याज्ञवल्क्यः,
“अभियोगमनिम्तौर्य नैनम्प्रत्यभियोजयेत् ।
अभियुक्तं न चान्येन नोक विप्रकृतित्रयेत्” इति ॥ प्रत्यर्थिनि यस्मिन् वादिना सम्पादितमभियोगमपरिहत्य प्रत्युतैनं प्रत्यभियोगं न कुर्यात् । अर्थों ' च अन्येनार्थिना अभियुके प्रत्यर्थिनि तदभियोगपरिहारात् पुरा स्वयं नाभियुंज्यात् । उभाभ्यामपि प्रतिज्ञारूपमुत्तररूपं वा वचोयत् यथाऽभिहितं, तत्तथैव समाप्तिपर्यन्तं निर्वाह्यम् । प्रत्यभियोगनिषेधस्य अपवादमाह मएव,___"कुर्यात् प्रत्यभियोग कलहे साहसेषु च” इति।
कलहे वाग्दण्डपारुष्यात्मके, साहसेषु विषशस्त्रादिनिमित्तप्राणव्यापादनादिषु, प्रत्यभियोगसम्भवेनाभियोगमनिस्तौर्यापि स्वाभियोक्रारं प्रत्यभियोजयेत् । नपत्रापि पूर्वपक्षानुपमईनरूपत्वे चानुत्त
• मवेदयत्रोभयोरपि । दोलायमानौ यो सन्धिं कुर्यातां तो विचक्ष
णौ,-इति ग्रन्थान्तरीयः पाठः समोचीनः । पर्थिनि,-इति श० स० ।
For Private And Personal Use Only