________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवहारकाण्डम् |
-
Acharya Shri Kailassagarsuri Gyanmandir
यत्र तु मिथ्याकारणोत्तरयोः कृत्स्नपचव्यापित्वं ; यथा श्टङ्गग्रा-freer कश्चिदति, द्वयं गौर्मदीया अमुकस्मिन् काले नष्टा श्रस्य गृहे दृष्टेति श्रन्यस्तु मिथ्यैतत् प्रदर्शितकालात् पूर्वमेव महे जाता सेति वदति । इदं तावत् पचनिराकरणसमर्थत्वात् नानुन्तरम् । नापि मिथ्यैव कारणोपन्यासात् । नापि कारणम्, एकदेशाभ्युपगमाभावात् । तस्मात् मकारणं मिथ्योत्तरमिदम् । अत्र च प्रतिवादिनः क्रिया “ कारणे प्रतिवादिनि” - इति वचनात् ।
ननु “ मिथ्याक्रिया पूर्ववादे ” - इति पूर्ववादिनः कस्मात् क्रिया न भवति ? ' तस्य शुद्धमिथ्याविषयत्वात् । कारणे प्रतिवादिनीत्येतदपि तस्माच्छु कारणविषयं न भवति ? नैतत् । सर्वस्यापि कारणणेत्तरस्य मिथ्यासहचरितरूपत्वात् शुद्धकारणोत्तरस्याभावात् । प्रमिद्भूकारणोत्तरे प्रतिज्ञातार्थैकदेशस्याभ्युपगमेनैकदेशस्य मिथ्यात्वम् । यथा सत्यं रूपकशतं गृहीतं न धारयामि। दत्तत्वादिति । प्रकृतोदाहरणे तु प्रतिज्ञातार्थैकदेशस्याप्यभ्युपगमो नास्तीति विशेषः । एतच्च हारीतेन स्पष्टमुक्रम्,
६३
"मिथ्याकारणयोर्वाऽपि ग्राह्यं कारणमुत्तरम् ” - इति । यत्र मिथ्याप्राङ्न्याययोः पचव्यापित्वं ; यथा रूपकशतं धारयतीत्यभियोगे मिथ्येतत्तस्मिन्नर्थे पूर्वमयं पराजित इति, अत्रापि वादिनएव क्रिया ।
• छात्र, न, इति भवितुमुचितम् ।
+ इत्यमेव पाठः सर्व्वत्र । ममतु कस्माच्छु, डकारणविषयं - इति पाठः प्रतिभाति ।
| न दास्यामि इति का० ।
For Private And Personal Use Only