SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ६२ च मङ्करः, तत्रोत्तरोपादानेन * व्यवहारोद्रष्टव्यः । सम्प्रतिपत्तेः प्रयोगाभावात् । यथा हारीतेनोक्रम्, - पराशर माधवः । ** Acharya Shri Kailassagarsuri Gyanmandir “मिथ्योत्तरं कारणञ्च स्यातामेकच चेदुभे । सत्यञ्चापि सहान्येन तत्र ग्राह्यं किमुत्तरम् ” - इत्युक्का, " यत् प्रभूतार्थविषयं यत्र वा स्यात् क्रियाफलम् । उत्तरं तत्र विज्ञेयमसंकीर्णमतोऽन्यथा दूति । संकीर्णं भवतीति शेषः । ऐच्छिकक्रमं भवतीत्यर्थः । तत्र प्रभृतार्थविषयं यथा, अनेन सुवर्णं रूपकशतं जस्त्राणि च गृहीतानी प्रत्यभियोगे, सुवर्ण रूपकशतं वस्त्राणि गृहीतानि प्रतिदत्तानि चेति । अत्र मिथ्योत्तर ! प्रभूतविषयत्वादर्थिनः क्रियामादाय प्रथमं व्यवहारः प्रवर्त्तयितव्यः, पश्चादस्त्रविषये व्यवहारः । एवं मिथ्याप्राङ्न्यायमङ्करे कारणप्राङ्न्यायसङ्करे च योजनीयम् । यथा तस्मिन्नेवाभियोगे, सत्यं सुवर्णं रूपकशतं च गृहीतं दास्यामि, वस्त्राणि तु न ग्टहीतानि प्रतिदत्तानि वा वस्त्वविषये पूर्वं पराजित इति चोत्तरे, सम्प्रतिपत्तेर्भूरिविषयत्वेऽपि तत्र क्रियाऽभावात् मिथ्योत्तरक्रियामादाय व्यवहारः प्रवर्त्तयितव्यः । इयमेव पाठः सर्व्वत्र । ममतु, तत्रोत्तरान्तरोपादानेन, इति पाठः प्रतिभाति । + इत्थमेव पाठः सर्व्वत्र । ममतु सुवर्णं रूपकशतं च न ग्टहीतं, वस्त्राणि गृहीतानि प्रतिदत्तानि चेति, - इति पाठः प्रतिभाति । | इत्यमेव पाठः सर्व्वत्र । ममतु, मिथ्योत्तरस्य - इति पाठः प्रतिभाति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy