SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकागडम् । "मिथ्या क्रिया पूर्ववाद कारण प्रतिवादिनि"-इति स्मरपात् । तदुभयमेकस्मिन् व्यवहारे विरुद्धम् । यथा सुवर्ण रूपकशतं च अनेन ग्टहौतमित्यभियोगे सुवर्णञ्च ग्टहीतं रूपकातं ग्रहोतं प्रतिदत्तमिति । कारणप्राङ्न्यायसङ्करे प्रत्यर्थिनएव क्रियादयम् । "प्राङ्न्यायकारणोक्रौ तु प्रत्यर्थों निर्दिगोत् क्रियाम्'-दति स्मरणात्। यथा सुवर्ण ग्टहीतं प्रतिदत्तं रूपके व्यवहारमार्गण पराजित इति। अत्र प्राङन्यायेन जयपत्रेण वा न्यायदर्शिभिर्वा भवितव्यंकारणोत्तरे तु माक्षिलेख्यादिभिः भावयितव्यमित्यविरोधः । एवमुत्तरत्र सङ्करेऽपि द्रष्टव्यम् । यथाऽनेन सुवर्णं रूपकशतं वस्त्राणि च ग्टहौतानौत्यभियोगे : सत्यं सुवर्णं ग्टहीतं प्रतिदास्यामि, रूपकशतं न ग्रहोतं. वम्त्रविषये पूर्व न्यायेन पराजितइति। एवं चतु:मकरेऽपि । एतेषां चानुत्तरत्वं योगपद्येन, तस्य तस्यांशस्य तेन तेन विवादप्रसिद्धेः । क्रमेणोत्तरत्वमेव । क्रमचार्थिनः प्रत्यर्थिन: सभ्यानाञ्चच्छया भवति । यत्र पुनरुभयोः सङ्करः, तत्र यस्य प्रभूतार्थविषयत्वं तत्र क्रियोपादानेन व्यवहारः प्रवर्त्तयितव्यः । पश्चादन्यविषयोत्तरोपादानेन । यत्र च सम्प्रतिपत्तेरुत्तरान्तरस्य * इत्यमेव पाठः सर्वत्र | मम तु, प्रान्याये,- इति पाठः प्रतिभाति । इत्यमेव पाठः सर्वत्र । मम तु, भावयितव्यम्, इति पाठः प्रतिभाति । इत्य मेव पाठः सर्वत्र । मम तु, रवमुत्तरत्रय, इति पाठः प्रतिभाति । 5 पुनरुभयोरसङ्करः, इति पा० स० । ॥ पश्चादल्पविषान्तरोपादानेन,- इति का० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy