________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
प्रियपूर्वं श्रयेत्माम* भेदस्वभयदर्शिनः ।
यथापकर्षणं दण्डः ताड़नं बन्धनं तथा"-इति ॥ उत्तरलक्षणमाह प्रजापतिः,
"पक्षस्य व्यापक माध्यममन्दिग्धमनाकुलम् ।
अव्याख्यागम्यमित्येतदुत्तरन्तद्विदो विदुः” इति ॥ हारौतोऽपि,
“पूर्वपक्षस्य सम्बन्धमनेकार्थमनाकुलम् । अनल्पमव्यस्तपदं व्यापकं नातिभूरि च ॥ मारभूतममन्दिग्धं स्वपकांशसम्भवम् ।
अर्थिश्रवसमृढाथें देयमुत्तरमौदृशम्” इति ॥ स्वपक्षकांशशम्भवं अनवशेषितस्वपक्षेकदेशं, सम्पर्णवपक्षमिति यावत् । महोत्तरन्दातुमसत प्रति कात्यायन आह,
"श्रुत्वा लेख्यममत्यार्थ प्रत्यकारणाद्यदि ।
कालं विवादे याचेत तस्य देयो न संशयः” इति ॥ कालभेदं कारणाथें शेषञ्चाह नारदः,
"चालौनत्वाद् भयार्त्तत्वात् प्रत्यर्थो स्मृतिविभ्रमात् ।. कालं प्रार्थयते यत्र तत्र तलब्धुमर्हति ॥ एकाहं यहपञ्चाहं सप्ताहं पक्षमेववा ।
मामं मासत्रयं वर्षे लभते शक्त्यपेक्षया” इति ॥ तत्र व्यवस्थामाह सएव,
• प्रियः सामः, इति का० ।
For Private And Personal Use Only