________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
लब्धेऽर्थेऽभ्यर्थनं मोहः तथा वृत्ते पुनः क्रिया" ॥ एतत् पाण्डुलेख्येन लिखित्वाऽऽवापोद्धारेण(१) शोधितं पत्रे निवेशयेदित्याह कात्यायनः,
“पूर्वपक्षस्य भावोतं प्राशिवाकोऽभिलेखयेत् ।
पाण्डलेख्येन फलके ततः पत्रे च शोधितम्" इति । शोधनं यावदुत्तरदर्शनं, नातः परम् । अतएव नारदः,
"शोधयेत्पूर्ववादन्त यावन्नोत्तरदर्शनम् ।
अवष्टब्धस्योत्तरेण निवृत्तं शोधनं भवेत्”-इति । हेयोपादेयौ पूर्वपक्षौ विविनति वृहस्पतिः,
"राज्ञा विवर्जितो यश्च यश्च पौरविरोधकत् । राष्ट्रस्य वा समस्तस्य प्रकृतौनां तथैवच ॥ अन्ये वा ये पुरग्राममहाजनविरोधकाः । अनादेयास्तु ते सर्व व्यवहाराः प्रकीर्तिताः ॥ न्यायं वा नेच्छते का नान्यायं वा करोति यः । म लेखयति यस्त्वेवं तस्य पक्षो न सिद्ध्यति ॥ विरुद्धं वाऽविरुद्धं वा द्यावयाँ निवेशितौ । एकस्मिन् यत्र दृश्येतां तं पक्षं दूरतस्यजेत् ।।
* विशोधितम्,-इति का० । + कुबन्नन्यायं वा,-इति का ।
(२) पावापः पर्वमलिखितस्य निवेश नम् । उद्धारः पृथ्वं निवेशितस्या
पनयः ।
For Private And Personal Use Only