SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org पञ्चमोऽध्यायः । यत् समाश्रित्य वाल्मीकिप्रमुखाः शं परं गताः । तदाश्रयेऽङ्घिःक्रमणं रामचन्द्रस्य निलम् * ॥ Acharya Shri Kailassagarsuri Gyanmandir इत्थं चतुर्थाध्याये प्रकीर्णकपापानां प्रायश्चित्तमभिहितम् । तत्र, यद्यपि परिवेदनादिकं न प्रकीर्णकं उपपातकेषु पठितत्वात्, यद्यपि पुत्रभेदादिकथनं न प्रायचित्तरूपं, तथापि प्रकीर्णकप्रायश्चित्तस्य बाहुल्यादद्ध्यायार्थत्वमविरुद्धम् । तत्राध्यायान्ते स्वर्गसाधनमनुगमनं वर्णितम् । तेन ब्रह्मलोकसाधनमाहिताग्निदहनं बुद्धिस्यम् । अतः पञ्चमाध्याये तद्विवक्षुः आदौ प्रायश्चित्तमकरण विच्छेदशङ्कामपनुदन् परिशिष्टं प्रकीर्णकप्रायश्चित्तं तावन्नवभि: स्लोकैराह - कश्वानशृगालाद्यैर्दष्टो यस्तु द्विजोत्तमः । स्नात्वा जपेत् स गायचीं पविचां वेदमातरम् ॥१॥ गवां शृङ्गोदके स्नानं महानद्यास्तु सङ्गमे । समुद्रदर्शनादाऽपि शुना दष्टः शुचिर्भवेत् ॥२॥ वेदविद्याव्रतस्त्रातः शुना दष्टो द्विजेो यदि । सहिरण्योदके स्नात्वा घृतं प्राश्य विशुद्ध्यति ॥३॥ * मुद्रित पुस्तकातिरिक्तेषु नास्त्ययं स्लोकः । + पूटङ्गोदकाने, – इति स० शा ० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy