SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। मदीयं द्रयमनेन ग्रहोतं तत्प्रत्यर्पणोयमिति प्रतिज्ञा, तया युक्तं सप्रतिज्ञम् । प्रमाणं लिखितभुक्त्यादि। आगमो द्रव्यप्राप्तिप्रकारः कात्यायनोऽपि स्पष्टमुदाजहार, "निर्दिश्य कालं वर्षञ्च मासं पक्षं तिथिन्तथा । वेलां प्रवेशं विषयं स्थानं जात्याकृती वयः ॥ साध्यं प्रमाणं द्रव्यञ्च सङ्ख्या नाम तथाऽऽत्मनः । राज्ञाञ्च क्रमशो नाम निवासं साध्यनाम च ॥ क्रमात् पितॄणां नामानि पीडामाहर्टदायको । चमालिङ्गानि वाकयानि पहं सौर्त्य कल्पयेत् ।। देशं कालं तथोन्मानं मनिवेशं तथैवच ।। जातिः संज्ञाऽधिवासश्च प्रमाणं क्षेत्रनाम च । पिटपैतामहञ्चैव पूर्वराजानुकीर्तनम् ॥ स्थावरेषु विवादेषु दशैतानि निवेशयेत्” इति । देशादौनां स्थावर विवादेषु पुनरभिधानं, यत्र यावदुपयुज्यते तत्र तावदेवोपादेयं न तु म मवेति प्रदर्शनार्थम् । संग्रहकारोऽपि, "अर्थवद्धर्मसंयुक्त परिपूर्णमनाकुलम् । साध्यवद्वाचकपदं प्रकृतार्थानुबन्धि च ॥ प्रसिद्धमविरुद्धञ्च निश्चितं साधनक्षमम् । सङ्क्षिप्तं निखिलार्थञ्च देशकालाविरोधि च ।। वर्षर्तुमामपक्षाहोवेलादेशप्रदेशावत् । स्थानावमथमाध्याख्यं जात्याकारवयोयतम् समावसतिसाध्याख्या,-इति का। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy