________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६
पराशरमाधवः ।
कात्यायनः,
“यम्य स्यादधिका पौडा कार्य वाऽभ्यधिकं भवेत् ।
पूर्वपक्षो भवेत्तस्य न यः पूर्व निवेदयेत्” इति । यत्रोभयोरपि परस्परमर्थित्वं प्रत्यर्थित्वञ्च माध्यभेदायुगपङ्गवति, तोटष्टजातेबहुपौडस्य वाऽर्थिनो वादः पूर्व द्रष्टव्यः । तथाच वृहस्पतिः,
"अहंपूर्विकयाऽऽयातावर्थिप्रत्यर्थिनौ यदा ।
वादो वर्णानुपूर्येण ग्रायः पौडामवेक्ष्य च”-इति । समानवर्णत्वे पीडापेक्षया ग्राह्यः । अनेकवादियुग्मानां युगपदुपस्थाने दर्शनक्रममाह मनुः,
"अर्थानावुभौ बुध्वा धर्माधम्मौ च केवलौ । वर्णक्रमेण सर्वाणि पश्येत्कार्याणि कार्य्यिणम्” इति ।
इति दर्शनोपक्रमो निरूपितः ।
अथ चतुष्पाझ्यवहारः प्रस्तूयते ॥ प्रतिज्ञोत्तरं प्रमाणं निर्णयश्चेति चत्वारः पादाः। तत्र प्रतिज्ञा संग्टहाति याज्ञवल्क्यः,
"प्रत्यर्थिनोऽग्रतो लेख्यं यथाऽऽवेदितमर्थिना।
समामासतद हर्नामजात्यादिचिह्नितम्” इति । एतच वृहस्पतिना स्पष्टीकृतम्,
“उपस्थिते ततस्तमिन् वादी पक्ष प्रकल्पयेत् ।
For Private And Personal Use Only