SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । ४५ यदि वादी विवादप्रतिभुवं दातमसमर्थः, तदाऽपि तेनैवोक्तम्, “अथ चेत् प्रतिभूर्नास्ति दक्षोयस्य च* वादिनः । स रक्षितो दिनस्यान्ते दद्याद् मृत्याय वेतनम् ॥ द्विजातिः प्रतिभूहीनो रक्ष्यः स्यात् वाह्यचारिभिः । शूद्रादौन् प्रतिभूहोनान् बन्धयेन्निगडेन तु ॥ अतिक्रमेऽपयाते चा दण्डयेत् तं दिनाष्टकम् । नित्यकर्मोपरोधस्तु न कार्य: सर्ववर्णिनाम्” इति । अभियोक्त्रादीनां उक्निक्रमोऽपि तेनैवोक्तः, "तत्राभियोक्ता प्राग् ब्रूयादभियुक्तस्त्वनन्तरम् । तयोरन्ते सदस्यास्तु प्राविवाकस्ततः परम्"--इति । प्राग् ब्रूयात् प्रतिज्ञां कुर्यादित्यर्थः । तथाच नारदः, "आज्ञालेख्य पट्टिके शासने वा आधौ परे विक्रये वा कये वा । राज्ञे कुर्य्यात् पूर्वमावेदनं यः तस्य ज्ञेयं पूर्ववादो विधिज्ञैः" इति । विदादे पूर्वाभियोकुरेव प्रतिज्ञावादित्वमित्यर्थः । अत्रापवादमाह सएव, “यस्य चाभ्यधिका पौडा कार्य वाऽभ्यधिकं भवेत् । तस्यार्थवादो दातव्यो न यः पूर्व निवेदयेत्” इति । * वादयोग्यस्य,- इति शा० । वाद योग्यस्त,-इति ग्रन्थान्तरे । +तिक्रमे च पाते च,-इति का। । तस्यार्थिभावो,-इति ग्रन्थान्तरीयः पाठः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy