________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः ।
नेत्रवत्राविकारेश्च ग्टह्यतेऽन्तर्गतं मनः(१)"--इति । लिङ्गान्तराणि याज्ञवल्क्य आह,--
"देशाद्देशान्तरं याति सूक्कणी परिलेढि च। ललाटं खिद्यते चास्य मुखं वैवर्ण्यमेति च ॥ परिशष्यत्स्वलदाक्यो विरुद्धम्बहु भाषते । वाक् चक्षुः पूजयति ना तथोष्ठौ निर्भुजत्यपि(२) ॥ स्वभावाद्विकृति गच्छेन्मनोवाकायकर्मभिः ।
अभियोगेऽथ साक्ष्ये वा दुष्टः स परिकीर्तितः” इति ॥ छलवादपचे मएवाह,
"उभयोः प्रतिभूर्याह्यः समर्थ: कार्यनिर्णये” इति । सत्र वानाह कात्यायनः,
"न स्वामी न च वै शत्रुः स्वामिनाऽधिकृतस्तथा । विरुद्धोदण्डितश्चैव संशयस्थो न च क्वचित् ॥ नैव रिक्यो न रिक्थश्च न चैवात्यन्तवासितः । राजकार्यनियुकाश्च ये च प्रबजिता नराः ॥ नामका धनिने दातुं दण्डं राज्ञे च तत्समम् । नाविज्ञातो ग्रहीतव्यः प्रतिभूस्तक्रियाम्प्रति" इति ।
* की,--इति शा।
(२) याकारो विकृतः । इङ्गित खेद वेपथुरोमाञ्चादि । (२) न परकीयां वाचं प्रतिवचनदानेन पूजयति, चक्षुश्च परकीयवीक्ष
गोन । निजति कुटिलीकरोति ।
For Private And Personal Use Only