SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहार का म् । अथासेधादिविधिः । Acharya Shri Kailassagarsuri Gyanmandir तत्र नारदः, " वक्तव्येऽर्थे न तिष्ठन्तमुत्क्रामन्तञ्च तद्वचः । श्रमेधयेत् विवादार्थं यावदाज्ञानदर्शनम् ” - इति । प्रथमन्तावदर्थौ प्रत्यर्थिनं प्रति त्वयैतावन्मह्यं देयमित्यादिकं कार्य्यं ब्रूयात् । तत्र यदि तदुत मनभ्युपगम्योत्कान्तुमिच्छेत्, तदा स्वकार्य्यपर्य्यन्तं राजाज्ञया तं निरुन्ध्यात् । श्रासेधभेदानाह सएव,“स्थानासेधः कालकृतः प्रवासात् कर्मणस्तथा । चतुर्विधः स्यादामेधस्तमासेधं न लङ्घयेत्" - इति । अस्मात् स्थानात् त्वया न चलितव्यमिति स्थानासेधः । मदीयद्रव्यप्रदाने दिनमेतन्नोलङ्घनीयमिति कालासेधः । श्रदत्वा ग्रामान्तरं न गन्तव्यमिति प्रवासासेधः । श्रदत्त्वा न सन्ध्यावन्दनं कर्त्तव्यमिति कम्मसेिधः । सन्ध्यावन्दनादिवदिन्द्रियनिरोधो न श्रमेधाः । तदाह कात्यायनः, - "यमिन्द्रियनिरोधेन व्याहरेत् कुशलादिभिः । श्रासेधयेदनासेधैः स दण्ड्यो न त्वतिक्रमात् " - इति । इन्द्रियनिरोधवत् विषम देशोऽपि नासेधार्हः इत्याह नारदः, - “नदौमन्तारकान्तारद देशोपश्वादिषु । " श्रमिद्धश्च परासेधमुत्क्रामन्नापराध्नुयात् ” - इति । श्रमेध्यासेधकयोः तत्कालोल्लङ्घने दण्डमाह सएव, - * तदुत्तर, इति का० । + दुर्गमोपल्लवादिषु - इति का० । ३७ For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy