________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
मनुश्य जात्यादि ममोक्षणीयमित्याह,
"जातिजानपदान् धर्मान् श्रेणोधमाश्च शाश्वतान् ।
समौक्ष्य कुलधमांच स्खे वर्ण प्रतिपादयेत्” इति । उन्मार्गवर्तिनः कुलादीन् स्वमार्ग स्थापयेदित्याह याज्ञवल्क्यः,
"कुलानि प्रकृतीश्चैव श्रेणीर्जनपदानपि ।
स्वधर्माच्चलितान् राजा विनीय स्थापयेत्यथि” इति । कार्य्यदर्शनप्रकारमाह नारदः,
"धर्मशास्त्र पुरस्कृत्य प्राड्दिवाकमते स्थितः । समाहितमतिः पश्येत् व्यवहारमनुक्रमात् ॥ भागमः प्रथमः कार्या व्यवहारपदन्ततः । विचारो निर्णयश्चेति दर्शनं स्थाच्चतुर्विधम्" इति । श्रागमोऽर्थिवचनश्रवणं, तदादौ कर्त्तव्यम् । ततस्तद्वचनं णादानाधन्यतममस्मिन् पदे अन्तर्भाव्यम् । ततः प्रतिज्ञोत्तरप्रमाणानां विचारः । ततः प्रमाणतोजयावधारणम् ।
इति व्यवहारदर्शनविधिः ।
• कार्यो,-इति का।
For Private And Personal Use Only