________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
यत्र छस्लादीनि राजा वयं द्रष्टमशनः, तत्र स्तोभकात् सूचकाच बोद्धव्यम् । तयोः स्वरुपमाह कात्यायनः,
"मास्त्रेण निन्दितं त्वर्थमुख्योराज्ञा* प्रचोदितः । पावेदयति यः पूर्व स्तोभकः स उदाहतः ॥ नृपेणैव नियुक्तः स्यात् परदोषमवेचितम् ।
नृपस्य समयं ज्ञात्वा सूचकः स उदाहतः" इति । शास्त्रनिन्दितं छलादिकम् । अर्थमुख्यो धनलाभप्रधानः। राज्ञा शास्त्रादिपर्सालोचनपुरःमरमेव कार्य कर्तव्यम् । तदाह हारोतः,
"मास्त्राणि वर्णधमांस्तु प्रकृतीनाञ्च भूपतिः ।
व्यवहारस्वरूपञ्च ज्ञाला कार्य समाचरेत्" इति । प्रकृतयः पितामहेन दर्शिताः,
"रजकश्चर्मकारश्च नटो वरुटी एवच । कैवर्त्तकच विज्ञेयो म्लेच्छभिलौ तथैवच ॥ मेधिकस्विरवव्यालहस्ती लक्षट्टिपट्टिकौ । कोमेदिकाः भारुपदामानगोण्डोपगोपमाः ।। एताः प्रकृतयः प्रोक्ता अष्टादश मनौषिभिः । वर्णानामाश्रमाणन्तु सर्वदैव वहिः स्थिताः" इति ।
* त्व, मुख्यश्चार्थः, इति का । + बुरूड़,-इति का। । लक्षदृघट्टिकाः,-इति पाठः । ६ कोसेदिका - इति का।
For Private And Personal Use Only