________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
२६
यद्द्यवहारप्रतिपादकं धर्मशास्त्रं यच्च तदन्तर्गतं द्रव्यदण्डादिरूपमर्थशास्त्र, तदुभयमपि व्यवहारदर्शिना राजा अनुसरणीयम् । तदाह मएव,
“धर्मशास्त्रार्थशास्त्राभ्यामविरोधेन पार्थिवः ।
समीक्षमाणो निपुणे व्यवहारगतिं नयेत्" इति । धर्मगास्त्राणि पितामहेन दर्शितानि,
“वेदाः माङ्गास्तु चत्वारो मौमांसा स्मृतथस्तथा ।
एतानि धर्मशास्त्राणि पुराणं न्यायदर्शनम्' इति । ननु न धर्मशास्त्रान्तर्गतमर्थशास्त्रं, किन्वन्यदेव नौत्यात्मकम् । यत्त भविष्यपुराणे दर्शितम्,
"षाड्गुण्यस्य प्रयोगस्य प्रयोगः कार्यगौरवात् । मामादौनामुपायानां योगो व्यासममामतः । अध्यक्षाणाश्च निक्षेपः कण्टकामां निरूपणम् ॥
दृष्टार्थेयं स्मृतिः प्रोका ऋषिभिर्गरुड़ाग्रज" इति। वाढम्। अस्मिन्नप्यर्थशास्त्रे धर्मशास्त्राविरुद्धो योऽशः स उपादयः, इतरस्तु परित्याज्यः । तदाह मारदः,
“यत्र विप्रतिपत्तिः स्याद्धर्मशास्त्रार्थशास्त्रयोः ।
अर्थशास्त्रोकमुत्सृज्य धर्मशास्त्रोक्रमाचरेत्" इति । धर्मशास्त्रार्थशास्त्रयोर्विरोधे(१) न्यायेन निर्णतव्यम् । तदाह
* पुराणन्यायदानाम्, इति का । + इत्यमेव पाठः सर्वत्र । मम तु, तत्तु,-इति पाठः प्रतिभाति । (१) धर्मशास्त्रयोरर्थशास्त्रयोश्च विरोधे इत्यर्थः ।
For Private And Personal Use Only