________________
Shri Mahavir Jain Aradhana Kendra
२८
www. kobatirth.org
पराशर माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
" एषां मूर्द्धा नृपोऽङ्गानां मुखञ्चाधिकृतः स्मृतः । बाहू सभ्याः स्मृतिर्हस्तौ जो गणकलेखकौ !! हेमाग्यम्ब्वन्नपुरुषाः पादौ च पुरुषस्य च" - इति । या वृद्धराहित्यादिदोषरहिता, सा मुख्या सभा । तदुक्तं महाभारते -
"न मा सभा यत्र न सन्ति वृद्धाः
म ते वृद्धाः ये न वदन्ति धर्मम् । नामौ धर्मो यत्र न सत्यमस्ति न तत्सत्यं यच्छलेनानुबिद्धम् ” - इति । हूति सभानिरूपणम् ।
श्रथ व्यवहारदर्शन विधिर्निरूप्यते । तत्र प्रजापतिः, --
"राजाऽभिषेकसंयुको ब्राह्मणो वा बहुश्रुतः । धर्मासनगतः पश्येत् व्यवहाराननुल्बणान् ” - इति ।
नारदः,
" तस्माद्धर्मासनं प्राप्य राजा विगतमत्सरः । समः स्यात् सर्वभूतेषु बिभ्रद्वैवस्वतं व्रतम् " - इति ।
(१) यथा यमः,
“प्रियदेष्यौ समौ ज्ञात्वा प्राप्तकाले नियच्छति ।
तथा राज्ञा नियन्तव्याः प्रजास्तद्धि यमत्रतम् ” - इति ।
(१) यमायथा प्राप्तकाले प्रियदेष्यावुभावपि नियच्छति, तथा राज्ञा सर्व्वीः प्रजा नियन्तव्याइति सम्बन्धः ।
For Private And Personal Use Only