________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
अन्यथावादिनः सभ्यस्य दण्डमाह नारदः,
"रागादशामतो वाऽपि यो लोभादन्यथा वदेत् ।
सभ्योऽसभ्यः स विज्ञेयस्तं पापं विनयेद्धशम्”- इति । कात्यायनोऽपि,
"खेहादज्ञानतो वाऽपि मोहादज्ञानतोऽपि वा।
तत्र सभ्योऽन्यथावादी दण्ड्योऽसभ्यः स्मृतो हि मः” इति । याज्ञवल्क्योऽपि,"रागाद् द्वेषाद् भयादाऽपि स्मृत्यपेतादिकारिणः । सभ्याः पृथक् पृथक् दण्ड्याः विवादात् द्विगुणं दमम्” इति । वृहस्पतिरपि,
"अन्यायवादिनः सन्याः तथैवोत्कोचौ विनः ।
विश्वस्तवञ्चकाश्चैव निर्वास्याः सर्वएव ते” इति। कात्यायनः,
“अनिणे ते तु यद्यर्थे सम्भाषेत रहोऽर्थिना।
प्राडिवाकोऽपि दण्ड्यः स्यात् सभ्यश्चैव विशेषतः" इति । राजादीनां सभायामुपवेशनप्रकारमाह वृहस्पतिः,
"पूर्वामुखस्तूपविशेद्राजा मभ्याः उद खाः ।
गणकः पश्चिमास्यस्तु लेखको दक्षिणामुखः” इति । सभोपविष्टाः नृपादयो यस्याङ्गानि, तमङ्गिनं व्यवहारं पुरुषरूपेण परिकल्पयति सएव,
* सभ्याश्चैव,- इति स. पू . ।
For Private And Personal Use Only