________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परापारमाधवः ।
शास्त्रोदितेन विधिना तम्य यज्ञफलं भवेत्" इति । विपक्षे दोषमाह कात्यायनः,
"न्यायशास्त्रमतिक्रम्य सभ्यर्यत्र विनिश्चितम् । तत्र धर्मा ह्यधर्मेण हतो हन्ति न संशयः ॥ अपन्यायप्रवृत्तन्तु नोपेच्यं तत् सभासदः । उपेक्षमाणाः सनृपाः नरकं यान्यधोमुखाः ॥ अन्यायेनापि तं यान्तं ये तु यान्ति सभामदः । तेऽपि तद्भागिनस्तस्माद्बोधनौयः स तैर्नपः ॥ न्यायमार्गादपेतन्तु ज्ञात्वा चित्तं महीपतेः ।
वक्रव्यं तत्प्रियं तत्र न सभ्यः किल्विधी भवेत्?" इति। कार्यानिष्यत्तावपि यथाशास्त्रवादिनो नास्ति प्रत्यवायः, इति मएवाह,
"सभ्येनावश्यकर्त्तव्यं धर्मार्थसहितं वचः ।।
श्टणोति यदि नो राजा स्यात्तु सभ्यस्ततोऽनघः” इति । यदा तु राजा यथाशास्त्रं धर्म श्रुत्वा दोषकारिणि पक्षपातं न करोति, तदा निष्पापो भवति । तदाह मनुः,
"राजा भवत्यनेनाम्नु मुच्यन्ते च सभासदः ।
एनो|| गच्छति कर्तारं निन्दाही यत्र निन्द्यते"-इति । * हृतोहीति,--इति का। + नोपेनन्ते सभासदः,-इति का। है येऽनुयान्ति,- इति ग्रन्थान्तरीयः पाठः समीचीनः । 5 "तप्रियं न वक्तव्यं तदचने किविधौ भवेत्" इति पाठान्तरं का। ॥ यतो,-इति का० । विना,-इति शा० ।
For Private And Personal Use Only