________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम्।
धर्मप्रवका नृपतेर्न तु शूद्रः कथञ्चन ॥ यस्य शूद्रस्तु कुरुते राज्ञो धर्मविवेचनम् । तस्य सौदति तद्राष्ट्र पङ्क गौरिव पश्यतः ।। दिजान् विहाय सम्पश्येत् कार्याणि वृषलैः सह ।
तस्य प्रक्षुभ्यते राष्ट्र बलं कोणञ्च नश्यति" इति। गणक-लेखकावपि कार्यावित्याह दृहस्पतिः,
"शब्दाभिधानतत्त्वज्ञौ गणनाकुशलौ शुचौ ।
नानालिपिज्ञौ कर्त्तव्यौ राज्ञा गणकलेखकौ" इति। ध्यासोऽपि,
"त्रिस्कन्धज्योतिषाभिज्ञर) स्फुट प्रत्ययकारणम् । श्रुताध्ययनसम्पन्न गणकं योजयेन्नपः ॥ स्फुटलेखं नियुीत शाब्दं लाक्षणिक शचिम्।
* स्फुट लेख्यं नियुञ्जौत शब्द,-इति शा० ।
(९) ज्योतिःशास्त्रं हि गणितवन्ध-जातकस्कन्ध-सिद्धान्तस्कन्धरूपस्कन्ध
घयोपेत मिति गणिततत्त्वचिन्तामणिप्रतिषूक्तम् । गणित स्कन्धे व्यक्ताव्यक्तभेदाद विविधं गणितं निर्णीतम् । जातकस्कन्धे तु जातम्य शुभाशुभचिन्ता। सिद्धान्तस्तु, "यादिप्रलयान्तकालकलनामान प्रभेदः क्रमाचारश्च द्यसदां विधा च गणितं प्रश्नास्तथा सेत्तराः । भूधिष्ण्णग्रहसंस्थितेश्च कथनं यन्त्रादि यत्रोच्यते सिद्धान्तः स उदा. हृतोऽत्र गणित स्कन्धप्रबन्धे बुधैः ॥"---इति सिद्धान्तभिरामएक्तलक्षणः । विधा गणितमिति प्रतिले।मानुलामभेदादिति गगि तत त्वचिन्तामणौ व्याख्यातम् ।
For Private And Personal Use Only