SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परापारमाधवः "अष्टादशपदाभिज्ञः षड्भेदाष्टमहनवित् । प्रान्चौक्षिक्यादिकुशलः श्रुतिस्मृतिपरायणः ॥ विवादसंश्रितं धर्म पृच्छति प्रकृतं मतम् । विवेचयति यस्तस्मात् प्रादिवाकस्सु स स्मृतः ॥ यथा शल्यं भिषक् कायादुद्धरेद्यन्त्रयुक्रितः । प्राड्विवाकस्तथा शल्यमुद्धरेयवहारतः” इति । प्राविवाकस्य गुणाः स्मृत्यन्तरे दर्भिता: "अक्रूरो मधुरः स्निग्धः क्रमायातो विचक्षणः । उत्माहवानलुब्धश्च वादे योज्यो नृपेण तु” इति । प्रादिवाकस्य अनुकल्पमाइ कात्यायनः, "ब्राह्मणो यत्र न स्यात्तु पत्तियं तत्र योजयेत् । वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यमेन वर्जयेत् ॥ *यत्र विप्रो न विद्वान् स्यात् क्षत्रियं नत्र योजयेत् । वैश्यं वा धर्मास्त्रज्ञं शुद्रं यत्नेन वर्जयेत्” इति । तदवर्जने बाधमाह मनुः, “जातिमाचोपजीवी वा कामं शाद् ब्राह्मणब्रुवः(१) । * नास्त्ययं श्लोकः म० शा गुस्तकयोः । (१) ब्राह्मणमात्मानं ब्रवीति न स्वयं ब्रह्मणत्तो यः, सोऽयं ब्राह्मण ब्र वः । "धर्मकर्मविहीनस्त ब्रा.लिङ्गविवर्जितः । ब्रवीति ब्राह्मणोऽस्मीति तमाङाह्मणब्रुवम्" इत्युक्तलक्षणः। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy