________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सवहारकाण्डम् ।
यत्रोपविष्टाः विप्राय्याः सा यज्ञमदृशौ सभा"-इति । तच वान् मएवाह,
"देशाचारानभिज्ञा ये नास्तिकाः शास्त्रवर्जिताः ।
उन्मत्तकुहका लुब्धाः* न प्रष्टव्याः विनिर्णये"-दति । राजः प्रतिनिधिमाह याज्ञवल्क्यः,
“अपश्यता कार्यवशात् व्यवहारान् नपेण तु ।
सभ्यैः सह नियोक्तव्यो ब्राह्मण: सर्वधर्मवित्” इति । मोऽपि राजवत् पर्वकार्याणि विचारयेत्। यदाह मनुः,
“यदा वयं न कुर्य्यात्तु नृपतिः कार्य्यदर्शनम् । तदा नियुज्यादिद्वांसं ब्राह्मणं कार्य्यदर्शने ॥ सोऽस्य कार्याणि मम्पयेत् सभ्यैरेव त्रिभिश्तः ।
सभामेव प्रविश्यमामामीनः स्थितएवबा" इति । स च विचारको ब्राह्मण: प्राविबाक इति उच्यते । तदाह वृहस्पतिः,
"राजा कार्याणि सम्पश्येत् प्राड्विवाकोऽपि वा दिजः । न्यायाङ्गान्यग्रतः कृत्वा सभ्यशास्त्र मते स्थितः। बलेन चतुरङ्गेन यतो रञ्जयते प्रजाः । दौप्यमानः स्ववपुषा तेन राजाऽभिधीयते ।। विवादे पृच्छति प्रश्नं प्रतिप्रश्नं तथैवच ।
प्रियपूर्व प्राग्वदति प्राविवाकोऽभिधीयते"- इति । नारदोऽपि,
* उन्मत्तत्राद्धलुमाश्च, इति का।
For Private And Personal Use Only