________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाण्डम् ।
89
"न नियेत ममं भ; ब्राह्मणो शोकमोहिता ।
प्रव्रज्यागतिमाप्नोति मरणादात्मघातिनी"-इति । प्रव्रज्या मैथ नादिभोगत्यागः । नायं दोषः । अस्य निषेधस्य पृथचिनिविषयत्वात्। अतएवोशना,
"पृथकचितिं ममारुह्य न विप्रगन्तुमर्हति ।
अन्यामां चैव नारीणां स्त्रीधर्माऽयं परः स्मृतः"--इति । एकचित्यां ममारोहणं कल्पसूत्रकारेण दर्शितम्। "प्रेतस्योत्तरतः पन्या मंबेशनमविशेषेण नित्यवत्" इति। ___ न केवलं स्वयमेवानुगमनेन स्वर्ग वसति, किन्तु स्वभर्तारं नरकावरतीत्याह,
व्यालग्राही यथा व्यालं बलादुद्धरते विलात् । एवं स्त्री पतिमुद्धृत्य तेनैव सह मोदते ॥३१॥
यद्यपि पापीयान् पतिः स्वपापफलभोगाय नरकमार्गायाभिमुखोभवेत, तथापि योषित् स्वकीयेन प्रबलसुकृतेन तस्य पापफलभोगं प्रतिबध्य पतिमपि स्वेन मह गतिं नयति। अतएव व्यासः,
“यदि प्रविष्टोनरकं बद्धः पाणैः सुदारुणैः । मम्प्राप्नोयातनाम्यानं ग्टहीतो यमकिङ्करैः ।। तिष्ठते विवशोदोनोवेश्यमानः स्वकर्मभिः । व्यालग्राही यथा व्यालं बलाद्ग्रहात्य गङ्कितः ।।
* प्रव्रज्या मैयनगन्धपध्याक्षतवासोभूषणाताम्बूलादिस+भोगत्यागः,इति मु.।
For Private And Personal Use Only