________________
Shri Mahavir Jain Aradhana Kendra
१६
www. kobatirth.org
पराशरमाधकः ।
पदवं विशदयति वृहस्पतिः, -
“द्विपदा व्यवहारः स्यानहिंसासमुद्भवः । दिप्तकोऽर्थमूलस्तु (१) हिंसामूलः चतुर्विधः " - इति ।
तदेतदुभयविधं सएव विवृणोति -
र्भावयति, -
“कुमौदनिध्यदेयाद्यं * सम्भूयोत्थानमेवच ।
भृत्यदानमशुश्रूषा (९) भूवादाऽखामिविक्रयः ॥ क्रयविक्रयानुशयः समयातिक्रमस्तथा । स्त्रीपुंसयोगः स्तेयञ्च दायभागोऽचदेवनम् ॥ एवमर्थसमुत्थानं पदानि तु चतुर्दश । पुनरेव प्रभिन्नानि क्रियाभेदैरनेकधा ॥
पारुष्ये द्वे साहसञ्च परस्त्रीसंग्रहस्तथा ।
हिंसोद्भवपदान्येवं चत्वार्य्याह वृहस्पतिः " - इति ।
जगति सम्भावितानशेषान् विवादानुकेष्वष्टादशसु सएव श्रन्त
Acharya Shri Kailassagarsuri Gyanmandir
" पदान्यष्टादशैतानि धर्मशास्त्रोदितानि तु ।
मूलं सर्वविवादानां थे विदुस्ते परीचका: " - इति । इति व्यवहारपरिच्छेदः ।
*
कुसीदनिध्याधेयाद्यं, - इति शा० ।
+ म्टत्यदार मशुश्रूषा – इति का० |
+ एवमर्थसमुत्थानपदानि - इति पाठो मम प्रतिभाति ।
(१) खिप्रकइति चतुर्दश इत्यर्थः ।
(२) भ्टतिः कर्म्मम्रल्यं, तस्याभ्टतेरदानं म्टत्यदानम् ।
For Private And Personal Use Only