________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवहारकाण्डम् ।
Acharya Shri Kailassagarsuri Gyanmandir
१५
करणाय* चतुःसाधनत्वम् । चतुर्हितत्वं विस्पष्टम् । कर्चादिचतुष्टय
व्यापित्वं मनुना स्पष्टीकृतम्, -
“पादेाऽधर्मस्य कर्त्तारं पादा गच्छति साचिणः ।
पाद: सभासदः सर्वान् पादेो राजानमृच्छति " - इति । जेतुर्नृपस्य वा धर्मार्थयशसेा लोकानुराग सम्पादनाच्चतुष्का रित्वम् । त्रियोनित्वं स्पष्टम् । श्रसतां कितवस्तेनादीनां संसर्गं यः करोति, तस्मिनपि चौर्य्यादिशङ्का जायते । होढ़ोऽपचतद्रव्यादिदर्शनम्, तङ्गिं वा । तस्मादभियोगो भवति । श्रर्थिप्रत्यर्थिनाः यौ पूर्वोत्तरपचौ तौ व्यव हारस्य प्रवर्त्तकौ । तस्मात् द्विद्वारत्वम् । द्रव्यसङ्ख्यादिकं याथातथ्येनान्यथा वा राजादीनां अग्रे यदा ब्रूते, तदा तस्योभयस्य उपरि व्यवहारः प्रवर्त्तते । ततो द्विगतित्वम् । श्रष्टाङ्गेषु सपुरुषो राजेत्येतदेकमङ्गम् । अतो नास्ति नवत्वमङ्ख्याप्रसक्तिः । ऋणादानादौनां श्रष्टादशपदानां स्वरूपमुपरिष्टात् तत्र तत्र विचारयिष्यते । एतेषां श्रष्टादशपदानां मध्ये एकैकस्य पदस्य श्रवान्तरक्रियाभेदादनन्तभेदभिन्नत्वं शतशाखत्वम् । एतान् श्रष्टादशपदानवान्तरानन्तभेदभिन्नान् व्यवहारान् प्रकारान्तरेण द्वेधा संग्टहाति कात्यायनः, -
“दे पदे साध्यभेदातु पदाष्टादशतां गते । श्रष्टादशक्रियाभेदाद्भिन्नान्यथ सहस्रधा " - इति ।
For Private And Personal Use Only
* दोषकारणाय – इति का० । मम तु दोषकरणादिति पाठः प्रतिभाति । + धर्म्मार्थास्त्रयोलोकानुराग, – इति का० । मम तु धमीर्थयशोलोका
नुराग, - - इति पाठः प्रतिभाति ।
| विवदिष्यते इति शा० स० ।