SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकाण्डम् । भूतच्छलानुसारित्वात् द्विगतिः स उदाहतः । भूतं तत्त्वादिसंयुकं प्रमादाभिहितं छलम् ॥ राजा सपुरुषः सभ्याः शास्त्रं गणकलेखकौ । हिरण्यमग्निरुदकमष्टाङ्गः स उदाहतः ॥ मृणादानं [पनिधिः सम्भूयोत्थानमेवच । दत्तस्य पुनरादानमशुश्रूषाऽभ्युपेत्य च ॥ वेतनस्यानपाकर्म तथैवाखामिविक्रयः । विक्रीयासम्प्रदानञ्च क्रौत्वाऽनुशय एवच ॥ समयस्थानपाकर्म विवादः क्षेत्रजस्तथा । स्त्रीपुंमयोश्च सम्बन्धो दायभागोऽथ माहसम् ॥ वाक्पारुष्यं तथैवोकं दण्डपारुष्यमेवच । द्यूतं प्रकीर्णकञ्चैवेत्यष्टादशपदः स्मृतः ॥ क्रियाभेदान्मनुष्याणं शतशाखो निगद्यते” इति । ननु धर्मादौनां पादत्वमयुक्त, प्रतिजोत्तरप्रमाणनिर्णयाणां व्यवहारपादत्वात् । यतो याज्ञवल्क्यः प्रतिज्ञादीनि प्रकृत्याह, "चतुष्यायवहारोऽयं विवादेषूपदर्णितः" इति । वृहस्पतिरपि,-- “पूर्वपक्षः स्मतः पादः द्वितीयश्चोत्तरः स्मृतः । क्रियापादस्ततौयस्तु चतुर्थी निर्णयः स्मृतः” इति । नायं दोषः । धर्मादौनां प्रकारान्तरेण पादत्वोपपत्तेः। योऽयं निर्णयाख्यश्चतुर्थपादाऽभिहितः, स धर्मादिभिश्चतुर्भिः निष्पद्यते। तदाह वृहस्पतिः, For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy