________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
चारकाण्डम् !
Acharya Shri Kailassagarsuri Gyanmandir
"
व्यवहार इत्यत्र विशब्दो मानेत्येतस्मिन्नर्थे वर्त्तते । अथशब्दख सन्देहे वर्त्तते । तानेतानेवंविधानेकमन्देहहारिणोव्यवहारानर्थादिगतरागदेषवशात् प्राप्तान् राजा सम्यग्विचारयेत् । तद्विचारश्च राज्ञो गुणधर्मरूप श्राचारः । अतएव श्राचारकाण्डे व्यवहाराणामन्तर्भावमभिप्रेत्य पराशरः पृथग्व्यवहार काण्डमकृत्वा, “चितिं धर्मेण पालयेत्" - इति सूचनमाचं व्यवहाराणां कृतवान् । तानेवात्र सूचितान् व्यवहारान् वयं स्मृत्यन्तराणि तन्निबन्धनानि चानुसृत्य यथाशक्ति निरूपयामः ।
तत्र पूर्वोदाहृताभ्यां रूढियोगस्मृतिभ्यां व्यवहारस्वरूपं निरूपितम् ।
अथ तद्भेदाः निरूय्यन्ते ।
तत्र पणत्वापणत्वाभ्यां द्वैविध्यमाह नारदः, --
"मोत्तरोऽनुत्तरश्चेति स विज्ञेयो दिलक्षणः । मोत्तरोऽभ्यधिको यत्र विलेखापूर्वकः पणः” – इति ।
ई
अहं यदि पराजयेयं तदा शास्त्रप्रापिताद्दण्डद्रव्यात अधिकमेव द्रव्यं राजे तुभ्यञ्च दास्यामीति पत्र लिखित्वा यदभिभाषण, तदुत्तरम् । तेन सह वर्त्तते इति सोत्तरः । तद्रहितोऽनुत्तरः । पुनराप
(२) अर्थो धनम् । अर्थादिविषय रागदेषवशात् प्राप्तान् व्यवचारान् राजा विधारयेदित्यर्थः । व्यवहारानर्थान् विगतरागदेषवशात् प्राप्तानित्यादिपाठे, प्राप्तान् व्यवहारान् राजा विगतराग देववशात् विचारयेदिति सम्बन्धः ।
For Private And Personal Use Only