________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
पराशर माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
तद्धनं साध्यम् । तच्च मूलं यस्य विवादस्य, सोऽयं साध्यमूलः । स च कदा सम्पद्यते, – इत्यपेचायामुक्तम् - " प्रयत्नसाध्ये विच्छिन्ने धर्माये"इति ।
“सत्यं ब्रूयात् प्रियं ब्रूयात् न स्तेनः स्यात् न वार्द्धषिः”– इत्यादिविधिनिषेधादुपलभ्य विहितानुष्ठाने प्रतिषिद्धवर्जने चोत्पन्न उत्साहः प्रयत्नः । तेन साध्यो धनामकः पदार्थों यदा विच्छिन्नो भवति, तदानीमयं विवाद उत्पद्यते । असति तु धर्मविच्छेदे नास्ति व्यवहारस्यावकाशः । श्रतएव नारदः, -
“मनुः प्रजापतिर्यस्मिन् काले राज्यमबूभुजत् । धर्मैकतानाः पुरुषास्तदाऽऽसन् सत्यवादिनः ॥ तदा न व्यवहारोऽभूत् न देषो नापि मत्सरः । नष्टे धर्मे मनुष्येषु व्यवहारः प्रवर्त्तते " - दूति । वृहस्पतिस्तु द्वेषलोभादिदुष्टस्यैव व्यवहर्तत्वमाह - “धर्मप्रधानाः पुरुषाः पूर्वमासन्न हिंसकाः । लोभद्वेषाभिभूतानां व्यवहारः प्रवर्त्तते" ||
तस्माद्धर्मे विच्छिन्ने सति साध्यमूला न्यायनिर्णयफलो विवादीव्यवहारशब्देन रून्याऽभिधीयते । हारीतोऽपि निरूढिमभिप्रेत्याह“स्वधर्मस्य यथा प्राप्तिः परधर्मस्य वर्जनम् । न्यायेन क्रियते यत्तु व्यवहारः स उच्यते " - इति । व्यवहारशब्दस्य यौगिकमर्थं कात्यायन श्राह -
“वि नानार्थेऽव सन्देहे हरणं हार उच्यते । नानासन्देहहरणाद्व्यवहार इति स्मृतः” - इति ।
For Private And Personal Use Only