________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
युनोग्टहस्थाश्रमप्रयुक्तश्च धर्माऽभिहितः । अतः परं भूपत्वगुणप्रयुक्तव्यवहारविचारात्मको राजधर्माऽभिधीयते। धनिको धनप्रदाता, सृणिकस्तदीयस्यार्थस्य ग्टहीता, तयोः सन्दिग्धिर्विवाद:(१)। प्रतिभूस्तस्य प्रत्यर्पणं कारयिष्यामोति प्रतिश्रुत्य तदीयस्य भारस्य वोढा। लेख्यं धनसङ्ख्यावृद्धिविशेषादियुक्त पत्रम् । साक्षिण उत्तमाधमर्णयोः सम्प्रतिपन्नाः मध्यस्थाः। एतेषां प्रतिवादीनां बयाणां मन्दिग्धिायान्यायवर्त्तित्वाभ्यां मन्देहः । तस्मिन् सन्देहे मति योराजा विचारयितुं प्रभवति, तस्योत्पत्तिरभिधीयते इत्यर्थः । यस्माद्राजा मोमेन्द्रादिदेवतांशसम्भूतत्वादृणादानादौन व्यवहारान् विचारयितुं प्रभवति, तस्मात्तानसौ विचारयेत्। तदाह याज्ञवल्क्यः,
"व्यवहारान् नृपः पश्येद् विद्वद्भिर्बाह्मणैः सह ।
धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः" इति । पत्र व्यवहारशब्दो रूढियोगाभ्यां निर्णयफलकमर्थिप्रत्यर्थिविवादमाचष्टे। तत्र रूढिः कात्यायनेन निरूपिता,
"प्रयत्नमाध्ये विच्छिन्ने धर्माख्य न्यायविस्तरे ।
साध्यमूलस्तु यो वादो व्यवहारः स उच्यते” इति । न्यायः शिष्टसम्प्रतिपन्नं लौकिकमाचरणं, तस्य विस्तर इदं मदीयं धनमन्येनापहृतम् ; तत् क्षेत्रं धनादिकमेतस्य युक्तं नान्यस्येति उपपत्तिपुरःमरो निर्णयः। तस्मिन् न्यायविस्तरे विषयोभूते मति तत्प्रवर्तकोऽर्थिप्रत्यर्थिनोर्या विवादः स व्यवहार उच्यते। मदीयं धनं अन्येनापहृतं तत् पुनर्मया साधनौयमिति अर्थों यदुद्दिश्य प्रवर्त्तते, (१) सन्दिग्धौ इति पदं सन्दिग्धिशब्दात् सप्तम्येकवचने निष्यन्नम् ।
For Private And Personal Use Only