SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । ५ अगदीश्वरस्य रामचष्णादिक्षत्रियावतारः। तच्च गौतासु भगवता - विस्पष्टमभिहितम्, “यदा यदा हि धर्मस्य म्लानिर्भवति भारत । अन्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् ॥ परिचाणाय माधनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे”-इति । यथा महतां रावणादौनां शिक्षायै रामाद्यवतारः, तथा चुदाणं चौरादौनां शिक्षायै राजावतारः, इति द्रष्टव्यम् । अतएव मनुः, "अराजके हि लोकेऽस्मिन् सर्वतो विद्रुते भयात् । रक्षार्थमस्य सर्वस्य राजानमसृजत् प्रभुः ॥ चन्द्रानिलयमार्काणामग्रेस वरुणस्य च । इन्द्रवितेभयोश्चैव मात्रा वाहत्य शाश्वतीः१) ॥ यस्मादेव सुरेन्द्राणं मात्राभ्यो निर्मितो नृपः । तस्मादभिभवत्येष सर्वभूतानि तेजमा ॥ तपत्यादित्यवचैव चचूंषि च मनांसि च । न चैनं भुवि शक्नोति कश्चिदयभिवौक्षितम् ॥ मोऽनिर्भवति वायुश्च सोऽर्कः सोमः स धर्मराट् । म कुबेरः स वरुणः स महेन्द्रः प्रभावतः ॥ बालोऽपि मावमन्तव्यो मनुष्य इति भूमिपः । महतौ देवता शेषा नररूपेण तिष्ठति ॥ (१) चन्द्रादीनां शाश्वतोर्नियामात्रा बंशान् थाहृत्य राजानम अदिति पूर्वेस सम्बन्धः। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy