________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
शल्या कोरकिता ययःसुरभिता मिद्या समुद्यत्फला सम्प्राप्ता भुवि भाति नौतिलतिका सर्वोत्तरं माधवम्॥ श्रीमती जननो यस्य सुकीर्तिर्मायण: पिता । मायणो भोगनाथश्च मनोबुद्धी महोदरौ ॥ थस्य बौधायनं सूचं शाखा यस्य च याजुषौ । भारद्वाजं कुलं यस्य सर्वज्ञः स हि माधवः ॥
म माधवः सकलपुराणसंहिताप्रवर्तकः स्मतिसुषमापराशरः । पराशरस्मतिजगदौहिताप्तये पराशरस्मृतिविवृतौ प्रवर्त्तते ॥
व्याख्याते प्राचारप्रायश्चित्ते।
अथ व्यवहार प्रस्तूयते। यद्ययणदानादौनामष्टादशपदानां व्यवहाराणां मध्ये कमपि व्यवहारं पराशरो न व्युत्पादितवान्, तथाण्याचारकाण्डे चतुर्ण वर्णनां क्रमेणचारान् ब्रुवन्,
__ "क्षत्रियस्तु प्रजाश्चैव चितिं धर्मण पालयेत्”
इत्यस्मिन् वचने क्षत्रियविशेषस्य राज्ञ प्राचारविशेषमेवमवोचत्', "क्षितिं धर्मेण पालयेत्”-दति। तत्र क्षितिपालनं नाम, चित्याश्रिनासु प्रजासु दुष्टानां निग्रहः शिष्टोपद्रवपरिहारश्च । एतदर्थमेव हि
* राजाचारविषमेवमवोचत्, इति पाठान्तरम् ।
For Private And Personal Use Only