SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org १२ ष० ।] प्रायश्चित्तकाण्डम् | पूर्वमुत्पादयन्ति दानादयः । तच्च सुकृतं प्रवृत्तान्यपि फलानि प्रतिबद्ध्य स्वफलं प्रयच्छति । प्रतिबद्धश्च फलशेषः स्वप्नादौ जन्मान्तरे वोपयुज्यते । एतत्सर्वमुपपुराणे पराशरेण प्रपञ्चितम् - “शरीरारम्भकं कर्म योगिनोऽयोगिनोऽपिच । विना फलोपभोगेन नैव नश्यत्यसंशयम् ! वर्त्तमानशरीरेण सम्पन्नं कर्म देहिनः । इह चामुत्र चाज्ञस्य ददाति स्वफलं शुक ॥ फलदं कर्म प्रारब्धं प्रतिबध्य च । फलं ददाति स्वप्ने वा जाग्रत्कालेऽथवाऽनघ ॥ निवृत्तप्रतिबद्धन्तु प्रारभ्धं कर्म सत्तम । निरुद्धांशफलं स्वप्ने ददाति स्थिरमुत्तमम् ॥ निरुद्धांशसमोभोगो यथोद्भृतश्च जाग्रति । तथा निरुद्धन्तेनैव सह कर्म ददाति वै एवं निरुद्धभागन्तु * स्वप्ने जाग्रति वा फलम् । श्रारब्धस्यानगुण्येन भुङ्क्ते देही न संशयः ॥ अत्युत्कटै रिहत्यैस्तु पुण्यपापैः शरौरभृत् । प्रारब्धं कर्म विच्छिद्य भुङ्क्ते तत्तत्फलं बुधः || प्रारब्धशेषं विच्छिन्नं पुनर्देहान्तरेण तु । भुङ्क्ते देही न नो भुङ्क्ते तल्लङ्घयति कः पुमान् ॥ श्रवश्यं ननु भोक्तव्यं प्रारब्धस्य फलं जनैः । * इदं निरुद्धभोगन्तु, -- इति शा० | + व्यवश्यमनुभोक्तव्यं, - इति मु० । Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ ५२७
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy