________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२८
पराशरमाधवः ।
[१२ अ..
देहेनानेन* वाऽन्येन युगपदा क्रमेण वा ॥ श्वसूकरखरोष्ट्रादिविरुद्धैर्विग्रहरपि । भोकाऽस्यैव फलस्येह शुक, कर्माणि च क्रमात् ॥ कारणानि भवन्तौह चक्रवत् परिवर्त्तने । पारभन्ते क्रमेणैव तेषां नाशस्तु भोगतः ॥ मञ्चितेषु समस्तेषु प्रबलं कर्म देहिनः । फलमारभते देहमपि तत्साधनं बुध ॥ दुर्घट सकलं शक्तिर्माया माहेश्वरौ जड़ा ।
घटयत्यत्र सन्देहो नास्ति मा तादृशौ गतिः" इति । प्रबलेन कर्मणा प्रारब्धफलस्थ प्रतिबन्धाङ्गीकारे नैसर्गिकाः कुनखित्वादयोऽपि कचित् प्रतिबध्येरनिति चेत् । प्रतिबध्यन्तां नाम । यत्र प्रतिबन्धोन दृश्यते, तत्र दौर्बल्यं कल्पनीयम् । प्रबलाभ्यान्तु वर-शापाख्यां जन्मान्यथाभावोऽपि क्वचित् स्मर्य्यते । तथाच स्कन्दपुराणे व्याघ्र ईश्वरवरेण गणेश्वरत्वं प्राप्त इत्यभिहितम्। महाभारते नहुषस्येन्द्रपदप्रेमोरगत्यशापेनाजगरत्वं प्राप्तमित्यभिहितम्। यदा जातस्य देहस्यापि प्रबलेन निमित्तेनान्यथाभावोऽस्ति, तदा किमु वक्तव्यं, कौनख्यादेरन्यथाभावः, इति।
एवञ्च मति रोगशान्यादिप्रतिपादकानि सर्वाणि शास्त्राणि प्रारब्धभोगाविरोधेनानुग्टहीतानि भविष्यन्ति । रोगशान्तिश्चौषधादिसाध्या । तत्रौषध्यान्यायुर्वेदप्रमिद्धानि। दानानि च बौधायन
* देहेनै कन,-इति शा०।
For Private And Personal Use Only