________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२६
पराशरमाधवः।
[१२ ब.।
स्थापि प्रायश्चित्तं ब्रूते, किन्तव च्छिद्यते । उदाहृतञ्च शास्त्रं, तच्छान्तिरौषधैरित्यादि । तस्मादारब्धफलस्याप्यस्त्येव प्रायश्चित्तम् ।
अपरे पुनर्मन्यन्ते। नाख्येवारब्धफलस्य प्रायश्चित्तम्। कुनखित्वादिनिवृत्त्यदर्शनात् । यद्यारब्धफलं प्रायश्चित्तानिवनते, तदा नैसर्गिकमपि कुनखित्वादिकं प्रायश्चित्तान्निवत । न त्वेवमुपलभामहे। यथा मुनस्येषोर्लक्ष्यवेधोऽप्रतिसमाधेयः, तथा प्रारब्धफलं न पतिसमाधातुं शक्यम् ।
एतदेवाभिप्रेत्य भगवान् वादरायण: सूचयामास । “अनारब्धकार्य एव तु पूर्व दतवधेः (शा. मौ० ४५० १पा. १५सू०)"-इति । अस्थायमर्थः । ये सुकृतदुष्कृते तत्त्वज्ञाननिवर्त्यत्वेन पूर्वयोरधिकरणयो: १) प्रकृते, ते अनारब्धकार्य एव । न वारब्धफलयोः सुकृतदुष्कृतयोनिवृत्तिः । कुतः । तदवधेः । “तस्य तावदेव चिरम्”-दुति श्रुतावुत्पन्नज्ञानस्थापि मोक्षं प्रति शरीरपातावधिश्रवणादिति । __ एवं तर्हि तच्छान्तिरित्यादेः का गतिरिति चेत् । उच्यते । न पत्र प्रायश्चित्तमभिधीयते । तत्प्रकरणे पाठाभावात्। चिकित्माप्रकरणे हि ददं पठितम् । तथाच यथा चिकित्मा रोगनिवृत्तेर्दृष्टउपायः, तथा दानादिरपि दृष्टउपायः। तथा सति चिकित्सावदानादेर्न प्रायश्चित्तत्वम् । किन्तु रोगनिवर्त्तकं किञ्चित्प्रबलं सुकृता
* किन्वच्छिद्यते, -- इत्यादी पुस्तकेषु पाठस्त्वसमी चीनः । (१) तदधिगम उत्तर पूर्वाघयोरिति इतरस्याप्येवमसंश्लेषः इति चैत.
योरधिकरण यारियर्थः ।
For Private And Personal Use Only