________________
Shri Mahavir Jain Aradhana Kendra
१२ का०
www. kobatirth.org
प्रायवित्तकाण्डम् |
Acharya Shri Kailassagarsuri Gyanmandir
५२५
जात्युपाधावेव तत्सङ्कलनम् । पापव्यक्तीनां तु स्वरूपतोदेशकाल - कर्त्तवस्यादिभेदाच्च नेयत्ता । यदा कर्मणामेवेयत्ता नास्ति, तदा तद्विपाकानामियत्ता दूरापास्ता । एकैकस्य कर्मणो बहुविपाकस्मरलात् । उदाहृताश्च बहुविपाकाभिधायिकाः श्वशुकरेत्यादिस्मृत्ययः । तथाच तेषां निःशेषकथनं मनसाऽपि चिन्तयितुमशक्यम् । अतोदिङ्माचं प्रदर्शितम् ।
एतच्च विपाकाभिधानं सच्चेय्यमाणेभ्यः पुरुषं निवर्त्तयत् सञ्चि तेषु चोद्वेगं जनयन्निषेधेषु प्रायश्चित्तविधिषु चार्थवादतयाऽन्वेतौति पूर्वमभिहितम् । तत्र निषेधा आचारकाण्डे प्रपञ्चिताः । प्रायश्चित्तविधयश्च प्रायश्चित्तकाण्डे । तानि च प्रायश्चित्तानि सच्चितविषयाणि । प्रारभे तु विचारणीयम् । किं प्रायश्चित्तमस्ति उत नेति । तत्र तावदस्तीति केचिदाज: । उदाहरन्ति च वचनम्, -
"पूर्वजन्मकृतं पापं व्याधिरूपेण बाधते ।
For Private And Personal Use Only
तच्छान्तिरौषधैर्दानैर्जपहोमार्च्चनादिभिः” – इति ।
ननु नैतद्दु क्रिरहम् । तथाहि । निषिद्धस्य कर्मण: प्रायश्चित्तनिवर्त्तनौयत्वम्। यदा फलमारखं, तदैव कर्म्मत्वदशामतीत्य फलत्वदशायां प्रविष्टम् । न च फलस्य प्रायश्चित्तं क्वचित् प्रमिद्धमस्ति ।
नायं दोषः । फलत्वदशायामपि कर्मत्वस्यात्यन्तिकनिवृत्त्यभावात् । अन्यथा पापकर्मण: फलमिति व्यवहारानुपपत्तेः । श्रथवा । प्रायश्चित्तसदसद्भावः शास्त्रैकममधिगम्यः । शास्त्रं चेत् फल
* कर्त्तव्यावस्थाभेदाच्च - इति ।