________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९ अ.]
प्रायश्चित्तकाण्डम् ।
"हणगुल्मलतानाञ्च व्यादा दंष्ट्रिणामपि । क्रूरकर्मरतानाञ्च क्रमशो गुरुतल्पगः ॥ हिंसा भवन्ति क्रव्यादाः क्रिमयोऽभक्ष्यभक्षिणः ।
परस्परादिनोमत्स्याः प्रेत्यान्यस्त्री निषेवकाः” इति । अगम्यागमनकर्मविशेषात् फलविशेषः पद्मपुराणे,
"उदरव्याधियुक्तस्तु तथा गुङ्गनागमे । श्राचार्यभार्यागमने भगन्दरयुतो भवेत् ॥
तथा पापेन महता गुल्मी स्यादन्यजागमे"-इति । विष्णुधर्मोत्तरे,
“षण्डश्च जायते लोके दारातिक्रमकारकः । परपुंसि प्रमका च तस्य भार्या तथा भवेत् ।। कुष्ठी भवति धर्मज्ञ, अपहत्य तथा स्त्रियम् । लिङ्गव्याधिमवाप्नोति वियोनौ मैथुने रतः ।। गां च गत्वा द्विजश्रेष्ठ, लिङ्गनाशमवाप्नुयात् । दृष्ट्वा परस्त्रियं ननां नरो दुष्टेन चेतसा ॥ जात्यन्धत्वमवाप्नोति परलोके न संशयः । श्रवकोणे च भवति लिङ्गव्याधिसमन्वितः ॥ प्रकीर्णमैथुने जन्तुः क्लोवो भवति वै विज”-इति ।
* परस्त्रियम्, इति मु०। + मनोदुऐन चक्षुधा,-इति मु । । लिङ्गव्याधी न संशयः, इति मु.।
66
For Private And Personal Use Only