________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२०
पराशरमाधवः।
[११.।
उग्रान् स याति संसारानधर्मेणेह चेतसा ॥ श्वयोनौ तु स सम्भूतस्त्रौणि वर्षाणि जीवति । तत्रापि निरयं प्राप्तः कृमियोनौ प्रजायते ॥ कृमिभावमनुप्राप्य वर्षमेकन्तु जीवति । ततस्तु निरयं प्राप्तो ब्रह्मयोनौ प्रजायते । वृषलो ब्राह्मणौं गत्वा कृमियोनौ प्रजायते ॥ ततः मन्प्राप्य निधनं जायते सूकरः पुनः । सूकरो जातमात्रस्तु रोगेण म्रियते विजाः ॥ श्वा ततो जायते मूढः कर्मणा तेन भो दिजाः । श्वा भूत्वा ककलासस्तु जायते मानवस्ततः ॥
तत्रापत्यं ममुत्पाद्य ततो जायेत मूषिकः” इति । नारदपुराणे,
"चिन्तयेद्वौक्षयेद्वाऽपि जननौं वा सुतां च वा। बधू वा भ्राटदारान् वा गुरुभाऱ्या नृपस्त्रियम् ॥ स याति नरकं घोरं मञ्चिन्य श्वपचौमपि । दृष्ट्वा हि प्रमदा ह्येता यः क्षोभं व्रजते नरः ॥ तस्य पुण्यं कृतं मचे वृथा भवति नान्यथा।
पुण्यस्य सहयात् पापं पाषाणश्च भवेद्बुवम्" इति । व्यभिचारिणौं प्रति वराहपुराणे,
"ततः शनी भवेत् पश्चात् सूकरौ च ततः परम् । कर्मक्षये ततः पश्चान्मानुषी कुत्सिता भवेत् ॥ न च सौख्यमवाप्नोति तेन दुःखेन दुःखिता" इति ।
For Private And Personal Use Only