________________
Shri Mahavir Jain Aradhana Kendra
8 प० ।
www. kobatirth.org
प्रायखितकाण्डम् |
Acharya Shri Kailassagarsuri Gyanmandir
४३
परिवेदने प्रत्यवायं प्रायश्चित्तं च प्रदर्श्यदानों विषयविशेषे तदपवादं
दर्शयति,
कुनवामनपण्डेषु गद्गदेषु जड़ेषु च । जात्यन्धे बधिरे मूके न दोषः परिवेदने ॥ २५ ॥
कुजः पृष्ठभागे मांसादिविशेषेणायन्त विकृतदेहः । वामनोऽतिइखदेहः । षण्डोनपुंसकः। गदगदोजिहादिदोषेण सहसा वकुमशकः । जड़ोऽदमः कार्य्यैवप्रवृत्तः । जात्यन्धादयः प्रसिद्धाः । एवंविधस्य ज्येष्ठभ्य fareraोग्यत्वात् कनिष्ठस्य विवाहे नास्ति परिवेदने दोषः । एतच ज्येष्टस्य प्रव्रज्या देशान्तरगमनादौनामप्युपलचणम् । श्रस्मिंश्च परिवेदनाभ्यनुज्ञाने संवादवचनानि पूर्वमेव श्राद्धप्रसङ्गादुदाTarfe नाच प्रपश्यन्ते * ।
कुजत्वादिदोषरहितेष्वपि भिन्नोदरेषु परिवेदनमभ्यनुजानाति - पितृव्यपुत्रः सापत्ना: परनारीसुतस्तथा । दारासिंयोगे न दोषः परिवेदने ॥ २६ ॥
For Private And Personal Use Only
पिव्यमाल्यौ प्रसिद्धौ । परनारीसुतोद त्तक्रीतादिः । एतेषु ज्येष्ठेषु स्थितेषु कनिष्ठस्य विवाहाधानयोर्नास्ति प्रत्यवायः ।
कुजत्वादिदोषरहितेष्वेकोदरेषु पधाने विशेषमाह, ज्येष्ठभ्राता यदा तिष्ठेदाधानं नैव कारयेत् । अनुज्ञातस्तु कुर्वीत शङ्खस्य वचनं यथा ॥२७॥
वक्ष्यन्ते, - इति मु० ।