________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ अ.]
प्रायश्चित्तकाण्डम् ।
५०६
तलघातौ च सम्भूतः कुलेषु धनिनां नरः ।
गत्वा देशान्तरन्तेषां तब रागो महान् भवेत्" इति । वृद्धगौतमः,
"रक्षच्छेत्ता वृथा यस्तु स नाडीव्रणवान् भवेत्” इति। वायुपुराणे,
"भवेत् स्फुटितपादस्तु यो निहन्याद् वनस्पतीन् । प्राणिहिंसापरो जन्तुघातौ वा मृतमन्ततिः ॥ मुखे कृष्णवणौ श्वित्रौ बन्ध्योवा स्थादिसर्पवान् । बल्मौकन्तु खनित्वा यो हन्ति वायुभुजोनरः ॥ गजचर्मा ज्वरौ च स्यादाज्ञया पूर्वकर्मणः ।
भ्रूणहा खिबहस्तः स्थाइहिणौ दासपत्न्यपि" इति । विष्णुधर्मोत्तरे,
"वं कच्चिदातयित्वा तु प्राणिनां भृगुनन्दन ।
मांस भुक्त्वा तु धर्मज्ञ, भवतौह गदातरः” इति। इति हिंसाविशेषकर्मफलानि ।
थापेयपानाभक्ष्यभक्षणकर्मविशेषाद्योनिविशेषः । तत्र भिवधर्मोत्तरे,
“कृमिकौटपतङ्गानां विड्भुजां चैव पक्षिणम् ।
सुरापः प्राप्यते योनि पूर्वकर्मानुसारतः”-दूति ॥ उमामहेश्वरसंवादे,
"मद्यव्यमनिनोये च ये मद्यं सेवयन्ति च । शालान्तु कारयेद्यस्तु मद्यपानं ददाति यः ॥
For Private And Personal Use Only