SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। [१२ प.। मद्यविक्रयिषोये च मधं ये कौणयन्ति च । पिवन्ति ये नरा देवि, सर्वे ते ममभागिनः ॥ ते शौण्डिका वा चण्डाला लुब्धका मस्यघातकाः। दासत्वेनैव सुश्रोणि, जायन्ते पुरुषाधमाः ॥ तिर्यञ्चोऽपि समुत्पना यथा मृत्युमुपागताः । मद्यपानरता ये च णु तेषां गतिं शुभे ॥ षष्ठिवर्षसहस्राणि क्रमिभूत्वा महौतले । क्रमियोनिक्षये भूते पापन्तु कथयाम्यहम् ॥ श्वानयोनिशतं गच्छेत् जम्बूके पञ्चविंशतिम् । मद्यपानरता ये तु कां गतिं यान्ति सुव्रते ॥ शूट्रस्य चेदृशं पापं मद्यपानरतस्य च । विप्रस्य कथयिष्यामि मद्यपश्य दुरात्मनः ॥ काको भूत्वा चिरं देवि, विष्ठाभक्षस्तु जीवति । वर्षाणां द्वादशे लक्षे स जौवेत्यापकर्मकृत् ॥ खमांमं परमांसेन यो देही वृद्धिमृच्छति । तस्य योनिशतं गत्वा शरीरं व्या धितं भवेत् ॥ यासु योनिषु जायन्ते नरमांसस्य भक्षकाः । व्याधिरोगशतैर्युक्ता जायन्ते तासु कर्मणा”- इति ॥ मनुः, "कृमिकौटपतङ्गानां विड्भुजां चैव पक्षिणम् । हिंस्राणां चैव मत्त्वानां सुरापो ब्राह्मणो व्रजेत्" - इति ॥ विष्णरपि। “प्रभोज्यानभदणे क्रिमिः" इति। वृद्धगौतमः, For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy