________________
Shri Mahavir Jain Aradhana Kendra
५०६
www. kobatirth.org
मार्कण्डेयपुराणे,
पराशर माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
कुष्ठरोगेण घोरेण ब्रह्महत्यां प्रयोजयेत्” - इति ।
[१२ ब० ।
“शस्तं पुरुषं हत्वा नरः संजायते खरः । कृमिस्त्रीपरहन्ता च बालहा चोपजायते ॥ वृषस्य वृषणौ च्छित्वा षण्डत्वं प्राप्नुयान्नरः 1 परित्य ततो भूयो जन्मनामेकविंशतिम् ॥ कृमिकीटपतङ्गेषु स्थितस्तोयनरेषु च । गोत्वं प्राप्य च चण्डालपुल्कसादि जुगुप्सितः ॥ पङ्घन्धबधिरः कुठौ यक्ष्मा च प्रपीडितः । मुखरोगातिरोगैश्च रोगैरन्यैश्च बाध्यते ।
अपस्मारौ च भवति शूद्रत्वं चैव गच्छति ॥ एषएव क्रमो दृष्टो गोसुवर्णादिहारिणाम् । विद्याऽपहारिणाञ्चैव निदेशभ्रंशिनां गुरौ ” - इति । ब्रह्मपुराणे, -
For Private And Personal Use Only
“यस्तु रौद्रसमाचारः सर्व्वभूतभयङ्करः ।
हस्ताभ्यां यदि पद्भ्यां वा रन्जा दण्डेन वा पुनः ॥ स्लोद्रेः स्तम्भेरुपायैर्व्वा जन्तूंस्ताड्यतेऽनिशम् । हिंसार्थी निकृतप्रज्ञ उद्वेजनकरः सदा ॥ एवं शौलसमाचारो निरयं प्रतिपद्यते । स चेन्मनुष्यतां गच्छेद् यदि कालविपर्य्ययात् ॥ बधबन्धपरिक्लिष्टः कुले जायेत मोऽधमे । लोकद्वेष्टाऽधमः पुंसां स्वयं कर्मकृतैः फलैः " - इति ।
1