SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९१० प्रायश्चित्तकाण्डम् । ५०५ शको निस्तेजस्वः । मभायाङ्गलग्रन्थौ पुण्याक्षेपी वक्रणासः । शिष्टचौर्णधर्मदूषकः केकराक्षः । साधुजनतपखिदेवद्विजगुरुज्ञानयोगद्देष्टा वक्रास्थः । तटाकारामभेत्ता नेत्राङ्गहीनः । कृतघ्नः सर्वारम्भविकलः। परखाभिलाषौ क्षयरोगौ स्यात् । चौररक्षकः, व्यवहारेबमध्यस्थश्चौरवृत्तिपरश्च यः । वाणिज्यलाभोनो तस्य देशान्तरगतस्य च ॥ व्याधिः स्यात् प्राणमन्देहो मृतिस्तत्रैव पापिनः" इति। शिवधर्मोत्तरे, "एवं पापविशुद्धाश्च सावशेषेण कर्मणा । ततः क्षितिं समासाद्य जायन्ते देहिनः पुनः ॥ तत्रानुभूय दुःखानि जायन्ते कोटयो निषु । निष्क्रान्ता कौटयोनिभ्यः क्रमाज्जायन्ति पक्षिणः ।। संक्लिष्टाः पक्षिभावेन जायन्ते मृगयोनिषु । मृगदुःखमतिक्रम्य जायन्ते पशयोनिषु ॥ पशयोनि समासाद्य पुनर्जायन्ति मानुषाः । एवं योनिषु सर्वासु परिक्रम्य क्रमेण तु ॥ कालान्तरवशात् यान्ति मानुष्यमतिदुर्लभम् । उत्तमच्चापि मानुष्यं प्राप्यन्ते पुण्यगौरवात् ॥ विचित्रागतयः प्रोकाः कर्मणां गुरुलाघवात्। ततो मानुषतां प्राप्य व्याधिभिस्तत्र पौद्यते ॥ * सावशेषेण कम्मणाम् - इति मु०। 64 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy