________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ १०
प्रायश्चित्तकाण्डम् ।
५०३
दंट्रिभ्यश्च नखिभ्यश्च चण्डालाबाह्मणात् तथा । टहाधःपतनाच्चैव द्रुमाधःपातनात् तथा ॥ गोभ्यश्च मरणं लोके विज्ञेयं पापकर्मणाम् । ताडितस्ताद्यते लोके हारितोहार्यते तथा । हत्वा बधमवाप्नोति नात्र कार्या विचारणा । यद्यत् परस्याचरति तत्तदस्योपजायते । प्राप्नोति यादृशौं बाधां कर्मणा स्वकतेन यः। तस्थापि तादृशौ बाधा ज्ञेया जन्मनि जन्मनि ॥
तस्मात् सर्वप्रयत्नेन परबाधां विवर्जयेत्" इति । महाभारतऽपि,“য লান্ধিা নিজ্জিাস্থ মানিনি। अधर्मज्ञा गताचारास्ते भवन्ति गतायुषः ॥ कुगौला भिन्नमर्यादानित्यं सौर्णमैथुनाः । अन्यायुषो भवन्तीह नरानिरयगामिनः ॥ लोट्रमर्दो दणच्छेदी नखखादी* च योनरः । नित्योच्छिष्टः सूचकश्च नेहायुर्विन्दते महत् ॥ आयुरस्य निकृन्तामि प्रज्ञामस्याददे तथा । यः उच्छिष्टः प्रवदति खाध्यायं चाधिगच्छति ॥ यश्चानध्यायकालेऽपि मोहादभ्यसते द्विजः । प्रत्यादित्यं प्रत्यनलं प्रति गाञ्च प्रति द्विजम् ॥
ये मेहयन्ति पथि च ते भवन्ति गतायुषः" इति । * रखघाती,-इति मु. ।
For Private And Personal Use Only