________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०२
पराशरमाधवः ।
[१२ प.।
ब्राह्मणः शूद्रतामेति नास्ति तत्र विचारणा" इति । मार्कण्डेयपुराणे,
"ब्राह्मण: चत्रियोवैश्यः स्ववर्णे पाणिसंग्रहम् । अकृत्वा त्वन्यथा पाणे: पतन्नि नृप, संग्रहात् ॥ थश्च यस्थास्तु होनायाः कुरुते पाणिसंग्रहम् ।
अकृत्वा वर्णसंयोगं सोऽपि तवर्णभागभवेत्” इति ॥ अथ विशेषेण कर्मविपाकः । तत्र हिंसा विशेषायोनिविशेषः । तत्र मनुः,
“यां यां योनिच्च जीवोऽयं येन येनेह कर्मणा । क्रमशोऽनाति लोकेऽस्मिन्नेतत्सर्वं निबोध मे ॥ बहन् वर्षगणाण घोरान् नरकान् प्राप्य तत्क्षणत् । संसारान् प्रतिपद्यन्ते महापातकिनखिमान् ॥ श्वशकरखरोष्ट्राणां गोऽजाविमृगपक्षिणाम् ।
चण्डालपुल्कसानाञ्च ब्रह्महा योनिमृच्छति" इति ॥ नन्दिपुराणे,
"नरकेषु क्रमेणैव ब्रह्महा पाच्यते नरः । कल्पं कल्पं ततश्चान्ते स्थावरश्च प्रजायते ॥ तणगुल्मलतावलौवौरुद्रुमविभेदतः। तणभेदास्त्वगणिता गुल्मभेदास्तथा मताः ॥ लताभेदाश्च निःसंख्यावल्लीभेदास्तथैवच । वीर दास्वसंख्याता संख्या द्रुमजातयः ॥ तेषाञ्च देशभेदेन पुनः कष्टत्वभुच्यते ।
For Private And Personal Use Only