________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०॥
प्रायश्चित्तकाण्डम् ।
१७
अधर्म धर्ममित्याहुर्य तु मोहवशं गताः । ते च कालहतोद्योगाः सम्भवन्तौह मानुषे । निहाँमानिर्वषट्कारास्ते भवन्ति नराधमाः" इति । स्कान्दे नागरखण्डम्,
"प्राप्नुवन्ति कुदेशे च जन्म ये हेतुवादकाः । खामिद्रोहरता ये च कुक्कुटे जन्म चाप्नुयः ॥ अदत्वा ये तथाऽनन्ति पिटदेवद्विजातिषु । दुर्भिक्षे जनतापे च कुदेशे जन्म चाप्नुयुः ॥ ये च कुर्वन्ति दम्पत्योर्विवादं सानुरागयोः । विरूपा भ्रममाणश्च सर्वलोकविवर्जिताः* ॥ दरिद्रा जायया भ्रष्टा भवन्ति विगतायुषः । कन्यादाने च विघ्नं यो विक्रयं यः करोति वा॥ म कन्याः केवली सूते न पुत्र केवलं कचित् ।
जायन्ते ताश बन्धक्यो विधवा दुर्भगास्तथा"-इति ॥ प्रभासखण्डे,
“यैर्न दत्तं नरैः किञ्चित्तेषां चिहं दरिद्रता । जायन्ते रोगिणोरौद्राहिंसाः कुञाश्च वामनाः ॥ श्रपुत्राः कलहाक्रान्ताः परदारोपसेवकाः । महाराजका कर्माण: कुचेलाः कुशरीरिणः ॥
* विगहिताः, इति मु० । + केवलाः, इति प्रा० । । वह्याराजिक,-इति मु।
For Private And Personal Use Only