________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ १०
प्रायश्चित्तकाण्डम् ।
ब्रह्मा विश्वसृजोधर्मी महदव्यामेवच ॥ उत्तमा मात्विकौमेतां गतिमाहुर्मनीषिणः । एष सर्वः समुद्दिष्टस्त्रिप्रकारस्य कर्मणः ॥ त्रिविधस्त्रिविधः कृत्स्नः संसारः सार्बभौतिकः" इति । अथ प्रेतत्वादिहेतुभ्यः नानाविधेभ्यः पापविशेषेभ्यो योनिविशेषाः अभिहिताः विष्णुधर्मोत्तरे,
"असहिष्णुतयाऽन्यस्य गुणानां कारणं विना। महत्पापं समुत्पत्रं तदस्य प्रेतकारणम् ॥ ब्रह्मवहारिणश्चैते पापा:* प्रेतत्वमागताः । परदाररताः केचित् खामिद्रोहरताः परे । मित्रद्रोहरताः केचिद्देशेऽस्मिन् भृशदारुणे।
वकर्मभिश्युताः सर्वे जायन्ते प्रेतयोनिषु"-इति ॥ पद्मपुराणे,
"अयाज्ययाजकश्चैव याज्यानाञ्च विवर्जकः । विरको विष्णुविद्यासु म प्रेतो जायते नरः ॥ सामान्यदक्षिणां लब्धा ग्टमात्येको विमोहितः ।
नास्तिक्यभावनिरतः स प्रेतो जायते नरः" इति ॥ स्कान्दे चमत्कारखण्डे,
"योभवेन्मानवः बुद्रस्तथा पैशुन्यकारकः । ब्राह्मणान्वयमम्भूतो वृथा मांसाशकश्च यः ॥
* पापात्, इति मु.।
62
For Private And Personal Use Only