________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४९.
परापारमाधवः ।
[१२ ब.
प्राणिनां हिंसको नित्यं स प्रेतो जायते नरः । अकृत्वा देवकार्य यस्तथा च पिढतर्पणम् ॥ . योऽनाति भृत्यवर्गेभ्योऽदत्वा प्रेतः म जायते । परदाररतश्चैव परवित्तापहारकः ॥ परापवादसन्तष्टः स प्रेतो जायते नरः । कन्यां यच्छति वृद्धवाय नौचाय धनलिमया ॥ कुरूपाय कुशौलाय स प्रेतो जायते नरः । देवस्त्रीगुरुवित्तानि ग्टहीत्वा न प्रयच्छति ॥ विशेषाद्राह्मणेन्द्राणां स प्रेतो जायते नरः । दीयमानस्य वित्तस्य ब्राह्मणेभ्यस्तु पापकृत् । विनमाचरते यस्तु म प्रेतो जायते नरः ॥ शूट्रान्नेनोदरस्थेन ब्राह्मणो म्रियते यदि । त्रिकालज्ञो वेदवेदी धर्मज्ञोऽथ षडङ्गवित् । चतुर्वद्यपि यो विप्रः स प्रेतो जायते नरः ।। शास्त्रका ग्रन्थकती यद्यपि स्यात् षड़ङ्गवित् । कुलदेशोचितं कर्म यस्त्यत्वाऽन्यत् समाचरेत् ॥ कामादा यदि वा मोहात् स प्रेतो जायते नरः । उच्छिष्टस्य विशेषेण अन्तरिचमृतस्य च ॥ विषामिजलमृत्यूनां तथा चैवात्मघातिनाम् । प्रेतत्वं जायते नूनं सत्यमेतत्र संशयः" इति । अग्निपुराणे,
"मातरं पितरं वृद्धं जाति माधुजनन्तथा ।
For Private And Personal Use Only