SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ ब० ॥ प्रायश्चित्तकाण्डम् । ८५ कर्मणां फलनित्तिं शंस नस्तत्त्वतः पराम् ।। म तानुवाच धर्मात्मा महर्षोन्मानवो भृगुः । अन्य सर्वम्य श्टणत कर्मयोगस्य निर्णयम् ॥ शुभाशुभफलं कर्म मनोवाग्देहसम्भवम् । कर्मजागतयो नृणामुत्तमाधममध्यमाः ।। तस्येह त्रिविधस्यापि ह्यधिष्ठानस्य देहिनः । दशलक्षणयुक्तस्य मनो विद्यात् प्रवर्तकम् ॥ परद्रव्येवभिध्यानं मनसाऽनिष्टचिन्तनम् । वितथाभिनिवेशश्च त्रिविधं कर्म मानसम् ॥ पास्थ्यमन्तञ्चैव पेशन्यञ्चैव सर्वशः । अनिवद्धप्रलापश्च वाङ्मयं स्थाच्चतुर्विधम् ॥ अदत्तानामुपादानं हिंसा चैवाविधानतः ।। परदारोपसेवा च शारीरं त्रिविधं स्मृतम् । मानसं मनसेवायमुप के शुभाशुभम् ॥ वाचैव वाक्कृतं कर्म कायेनैव तु कायिकम् । गरीरजैः कर्मदोषैर्याति स्थावरतां नरः । वाचिकः पक्षिम्गतां मानमैरन्यजातिताम्” इति । हारीतोऽपि । “मळभक्ष्यभक्षणमभोज्यभोजनमगम्यागमनमयाज्ययाजनमसत्प्रतिग्रहणं परदाराभिगमनं परद्रव्यापहरणं प्राणिहिमा चेति शारीराणि । पारुष्यमन्तं विवादः अतिविक्रयश्चेति वाचिकानि। परोपतापनं पराभिद्रोहः क्रोधो लोभोमोहेोऽहङ्कारश्चेति मानमानि । तदेतान्यष्टादश नेरयाणि कर्माणि यस्मिन् For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy