________________
Shri Mahavir Jain Aradhana Kendra
१२ ८०
www. kobatirth.org
प्रायवित्तकाण्डम् |
भृगुनन्दन ॥
शुभानामशुभानाञ्च कर्मणां मञ्चयः क्रियते लोके मनुष्यैरेव केवलम् । तस्मान्मनुष्यश्च मृतोयमलोकं प्रपद्यते ॥ नान्यः प्राणी महाभाग, फलयोनौ व्यवस्थितः ।
Acharya Shri Kailassagarsuri Gyanmandir
याम्यलोकं प्रपन्नस्य पुरुषस्य तथा यमः ॥ योनीश्च नरकांश्चैव निरूपयति कर्मणा " - इति । ब्रह्मपुराणेऽपि -
* यानि च इति मु० ।
+ यथा, - इति मु० ।
“कर्मणा मनसा वाचा ये धर्मविमुखा नराः । यमलोके तु ते घोरां लभन्ते परियातनाम् ॥
हाल्पमपि कृत्वा तु नरः कर्माशुभात्मकम् । प्राप्नोति नरकं घोरं यमलोकेषु यातनाम् ” - इति । विष्णुपुराणेऽपि
“पापयाति नरकं प्रायश्चित्तपराङ्मुखः ।
पापानामनुरूपाणि प्रायश्चित्तानि तद्यथा * ॥
तथा तथैव संस्मृत्य प्रोक्तानि परमर्षिभिः” - इति । विष्णुधर्मोत्तरे
“प्रायश्चित्तैः चचं याति कृतं पापं न संशयः । प्रायश्चित्तविहोना ये राजभिश्चाप्यदण्डिताः ॥
नरकं प्रतिपद्यन्ते तिर्य्यग्योनिं तथैवच
।
For Private And Personal Use Only
४८३