________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१८२
[१२ ० ।
विपाकः प्ररोचकत्वेन वक्तव्यः । न तु ब्रह्महत्यादिविपाकः । तस्याप्ररोचकत्वात् । मैवम् । द्विविधा हि ब्रह्महत्यादयः, संचिता: सञ्चेष्यमाणाश्च । तत्र सञ्चेष्यमाणेषु प्रतिषेधविषयेषु ब्रह्महत्यादिषु चयरोगाद्युपन्यासो ब्राह्मणावगोरणादौ शतयातनादिवत् तन्निवर्त्तकार्थवादत्वेनान्वेति । संचितेषु प्रतिकूलं फलं श्रुत्वा तत उद्विजमानस्तनिवृत्त्युपायमाकांचति । श्रत उद्वेगप्रयोजकतया प्रायश्चित्तेऽपि वर्त्तकत्वं भवतीति प्रवर्त्तकनिवर्त्तक द्विविधार्थवादत्वेनायं कर्मविपाकोपन्यास उपयुज्यते ।
तदेवं सञ्चितमंचेष्यमाणयोरुपयोगः । श्रारब्धफलेषु प्रतिकूलफलस्य प्रत्यक्षदर्शनादेवोद्वेगः मिति । प्रवर्त्तकन्तु व्याध्यादिनिवृत्तिरूपस्य प्रायश्चित्तविपाकस्योपवर्णनम् । श्रतः चयरोगादिरूपस्तनिवृत्तिरूपश्च विपाकोऽत्र निरूप्यते ।
तत्र सामान्येन पापकर्मविपाकः शिवधर्मोत्तरेऽभिहितः, - “श्रथातः पततां पुंसामधर्मः परिकीर्त्तितः । नरकादौ महाघोरे पतनात् पापमुच्यते " - इति ।
विष्णुधर्मोत्तरेऽपि,—
पराशरमाश्चवः ।
Acharya Shri Kailassagarsuri Gyanmandir
“श्रतिवाहिकमंजस्तु देहो भवति भार्गव । केवलं तन्मनुष्याणां मृत्युकाल उपस्थिते ॥ याम्यैर्नरैर्मनुष्याणां तत् शरीरं भृगूत्तम 1 नीयते याम्यमार्गेण नान्येषां प्राणिनां द्विज । मनुष्याः प्रतिपद्यन्ते स्वर्ग नरकमेव वा ॥ नेवान्ये प्राणिनः केचित् मर्चे ते फन्नभोगिनः 1
For Private And Personal Use Only