SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१२ ब। प्रायश्चित्तकाण्डम्। ११ इत्यादिस्मरणात् । प्रायः पञ्चदशवर्षादिकम् । "तत्र जीवति वर्षाणि दश पञ्च च वा विज,"इत्यभिधानात् । भोगोयमयातनादिः । “यमलोके तु ते घोरां लभन्ते परियातनाम्"इत्यादिस्मरणात् । तमेतं जात्यायु गलक्षणं विपाकं सामान्यविशेषशास्त्रोदाहरऐन बहुधा प्रपञ्चयिष्यामः । ___ ननु नायं विपाकोविधातुं प्रतिषेद्ध वा शक्यते, अननुष्ठेयत्वादवर्जनौत्वाच । श्रतएव तस्मिन् विधिप्रतिषेधपरेण शास्त्रेण ननिरूपणमयुक्तम् । ___ नायं दोषः । प्रायश्चित्तार्थवादत्वेन तदुपयोगात्। अर्थवादस्तु विहिते प्रवर्तकत्वेन प्रतिषिद्धानिवर्तकत्वेन च विधिप्रतिषेधैक्यता भजते इति न्यायविदां मर्यादा। अत्र च प्राजापत्याद्यनुष्ठानरूपस्य प्रायश्चित्तस्य क्लेशात्मकत्वाद्रागतः प्रवृत्तिन सम्भवतीति तत्र प्रवृत्तिसिद्धये प्ररोचना कर्त्तव्या । ननु विहितेष्वग्निष्टोमादिषु स्वर्गादिविपाकोपवर्णनेन प्ररोचयितुं शक्यते । स्वर्गादौनामनुकूलफलत्वात्। क्षयरोगादौनां तु प्रतिकूलफलत्वेन तदपवर्णनं न प्ररोचनायोपयुक्रम्। विषम उपन्यासः। तच हि स्वर्गादिसाधने प्ररोचनमुत्पादनौयम् । न त्वत्र क्षयरोगादिसाधने प्ररोचनमुत्पाद्यते। किन्तईि क्षयरोगादिनिवर्त्तके प्रायश्चित्ते । तन्नित्तिश्चानुकूलं फलम् । नन्वेवमपि जयरोगादिनिवृत्तिरूपएव प्रायश्चित्तात्मकस्य कर्म 61 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy